________________
-
॥ अथ विश्वसत्यतायां प्रमाणम् ॥
॥ तत्रादौ आगमानुमानाभ्यां विश्वसत्यत्वसिद्धिः ॥
१३० सु० — एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स (त्ता ) त्यतायां प्रमाणमाह विश्वमिति ।
अनु०—– 'विश्वं सत्यं' 'यच्चिकेत' 'प्र घा न्वस्य' 'यथार्थतः' ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचिकाः ॥
यथार्थत इत्यनेन 'कविर्मनीषी' इति श्रुतिमुपादत्ते । व्यावहारिकसत्यतापराः श्रुतय इति चेन्न, 'तत्सत्यमि' त्यस्या अपि तथात्वप्रसङ्गात् । श्रुत्यन्तरविरोधादिति चेदत्रापि 'असदेवेदमिति श्रुतिविरोधात् । अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न, सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु ( प्रयोजन ) त्वात् । निष्प्रप- श्चात्मज्ञानसाध्याद्वितीयतापत्तिरूपपुरुषार्थविरुद्धं प्रपञ्चसत्यत्वमिति चेत्, तर्हि ब्रह्मसत्यत्व- मपि शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुद्धमिति समानम् । तत् प्रमाणाननु- गुणमिति चेत्, सममेतदपीति वक्ष्यामः ।
अनुमानमपि प्रपञ्चसत्यतायामर्थक्रियाकारित्वं द्रष्टव्यम्, प्रागुक्ततर्कोपपादनेनैव अस्य उपपादित्वादिति ।
परि०— 'विश्वं सत्यम्' इत्यादिना 'विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम्’ ‘यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता', 'प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचमि' ति श्रुतीनामुपादानस्य स्पष्टत्वात् । 'कविर्मनीषी परिभूः स्वयम्भूर्याथा - तथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः' इति श्रुतौ यथार्थत इति पदाभावेन तच्छ्रुत्युपादान- स्यास्फुटत्वादाह यथार्थत इत्यनेनेति । एतासामर्थस्य तत्त्वोद्योतादौ स्पष्टमुक्तत्वात् सन्याय- रत्नावल्यामर्थस्योक्तत्वाच्चार्थमनुक्त्वा तासाममुख्यसत्यतापरत्वेन वा सत्यत्वरूपे स्वार्थे तात्पर्याभावेन वा विश्वस्य परमार्थसत्त्वा(त्व)निर्णायकत्वमाशङ्कय प्रतिबन्धा निराह व्यावहारिकेति । ' इति चेन्ने' - त्यनन्तरं कल्पकाभावादन्यथेति पदद्वयमव्याहार्यम् । कल्पकमाशङ्कते श्रुत्यन्तरेति । नेहनानेत्यादि श्रुत्यन्तरेत्यर्थः । अत्रापीति । ब्रह्मसत्यत्वेऽपीत्यर्थः । अपुरुषार्थत्वादित्यत्र नञोऽभावार्थत्वमुपेत्य