📚 न्यायसुधा-परिमलाद्युपेत-११
Page 1
Download 📥
________________ १ सु०— परि०-- || श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ श्रीमज्जयतीर्थयतिकृता श्रीमन्न्यायसुधा ॥ अथ द्वितीयाध्यायः ॥ ॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥ ॥ अथ स्मृत्यधिकरणम् ॥ ।। २-१-१ ।। ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ ॥ अथ मङ्गलाचरणम् ॥ यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् । न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् ॥ १ ॥ भवापदो विनश्यन्ति यत्पादस्मृतिमात्रतः । तं वन्दे कुमतध्वान्तभास्करं नृहरिं सदा ॥ करिष्यमाणैतदध्यायार्थप्रतिपादनम् एवंविधभगवदुपासनरूपमिति भावेन अध्यायादौ मङ्गल- माचरति यत्पदमिति । यस्य स्वरूपम् । अथवा यत्पदं = यस्य — परमात्मनः, पदं – पादम् । कटाक्षेणापि इत्यादेः तद्विषयमल्पमपि ज्ञानं सम्पादयितुमशक्ता इत्यर्थः । विमतयः विरुद्ध- मतियुक्ताः ।