📚 न्यायसुधा-परिमलाद्युपेत-१३
Page 1
Download 📥
________________ २३ ॥ असदधिकरणम् ॥ ( अनुवर्तते) ॥ अथ सूत्रोक्तसिद्धान्तांशन्यास्ख्याने 'अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्' इति सूत्रस्य व्याख्यानम् ॥ ।। अथ तत्र अभावस्य जगत्कर्तृत्वाङ्गीकारे प्रलये ईश्वरादे: सर्वस्य अभावाभ्युपगमप्रसङ्गः ।। सु० — एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः । इदानीम् 'असत्कार्यं यथा दृष्टमित्यनुमानं विशेषतो निराचिकीर्षुस्तत्प्रस्तावनाय असूत्रयत् सूत्रकारः ॐ अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति । असमञ्जसम् एतद्विश्वस्याभावकर्तृक- त्वमतम् । कुतः । अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे अपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात् । ईश्वरादेः सर्वस्या (प्य) भावाभ्युपगमप्रसङ्गादिति यावत् । न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति । परि०— प्रमाणसमुदायेति । अनन्यथासिद्धनियतपूर्वभावित्वतादृशपश्चाद्भावित्व-भावत्व- कार्यत्वसकर्तृकत्वनियम-परिशेषरूपप्रमाणसमुदायेत्यर्थः । प्रमाणेति । निषेधैकस्वरूपत्वरूप- प्रतिपक्षरूपप्रमाणेत्यर्थः । इत्यनुमानमिति । ईश्वराद्यसत्त्वसाधकं भावत्वानुमानं बाधितविषयत्वादि- रूपविशेषदोषेण 'न तु दृष्टान्ताभावादि त्यादिसूत्रद्वयेन निराचिकीर्षुः प्रस्तावनाय दोषोक्तिप्रसञ्जनाय ईश्वराद्यभावानङ्गीकारप्रसङ्गं सूत्रे न्यबध्नादित्यर्थः । भाष्यटीकयोस्तु भावत्वहेतोस्तर्कपराहत्युक्तिपर- तयैतत्सूत्रं व्याख्यातम् । गु०दी० अभाववत्त्वप्रसङ्गात् इत्यत्र अभावत्वप्रसङ्गादिति पाठे न विद्यते भावः सत्ता यस्ये- त्यभावः अविद्यमानः । विमतः प्रागभावोऽपि प्रलये असन् वस्तुत्वात् ब्रह्मवदित्यनुमानसम्भवादसमञ्जसमेत- न्मतमिति सूत्राक्षरयोजना । यादु० प्रमाणसमुदायेति । भावत्वेनेश्वरादीनां प्रलयेऽभावसिद्धौ कार्यत्वस्य सकर्तृकत्वेन नियमे स्थिते, प्रागभावस्य नियतपूर्ववर्तित्वेन कारणत्वं सिद्धयत्कर्तृत्वमादायैव सिद्ध्यतीत्येवं प्रागभावकर्तृत्वस्य प्रमाणसमुदायेन लब्धत्वादित्यर्थः । प्रस्तावनायेति । भूमिकारचनायेत्यर्थः ।