📚 न्यायसुधा-परिमलाद्युपेत-१४
Page 1
Download 📥
________________ १ ॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ श्रीमज्जयतीर्थयतिकृता श्रीमन्न्यायसुधा द्वितीयाध्यायस्य द्वितीयः पादः ॥ रचनानुपपत्त्यधिकरणम् ॥ ॥ २-२-१ ॥ ॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥ ॥ अथ अस्मिन्द्वितीयपादे निवार्यमाणायाः शङ्कायाः प्रदर्शनम् ॥ सु० — सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्यायेऽभिहितः, तस्य साङ्ख्यादिसमय- विरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं ) ङ्कां निवारयितुं द्वितीयपाद आरभ्यते । परि०— मूलमवतारयितुं शङ्कोत्थापनाय वा अत्राध्यायेऽन्तर्भावद्योतनाय वा परमतानां दुष्टत्वोक्तिरत्र पादे व्यर्था इत्यतो वा पादप्रतिपाद्यमाह जगज्जन्मादीति । एतच लक्षणसूत्रोक्तं विशेषणम् । जगज्जन्मादिकारणत्वेनोपपादितं यौगिकब्रह्मपदोक्तं विशेषणमाह सकलेति । एतच्च वैशेषिकादिमतविरोधाय वा समस्तश्रुतिसमन्वयघटनाय वा उक्तम् । स्वातन्त्र्यसार्वज्ञ्यपूर्णानन्दादि- गुणपूर्णत्वोत्त्या अर्थाल्लब्धपारतन्त्र्याल्पज्ञानादिदोषराहित्यरूपं विशेषणमाह समस्तेति । एतद्विशे- षणद्वयोपपादकत्वेन जगत्कारण (त्व) विशेषणं प्रागुक्तम् । शैवादिमतविरोधाय ब्रह्मणीत्येतद्विष्णाविति व्याख्यातम् । उक्तविशेषणत्रयस्य विष्णावसम्भवनिरासाय सौ ब्रह्मपदप्रयोगो ब्रह्मणीति । समन्वयः शक्तितात्पर्यावधारणम् । तन्निराकरणार्थमिति । अन्यथात्वशङ्कानिराकरणार्थमिति वा तन्मूलभूतसमन्वयविरोधनिराकरणार्थं वेत्यर्थः ।