________________
॥ अथ वैशेषिकाधिकरणम् ॥
( गतसम्पुटात् अनुवर्तते)
॥ अथ उक्तार्थस्य परामर्शपूर्वकं सौत्रानुमानस्य युक्तत्वे (उपसंहार) समन्वयः ||
३४ सु० - तदेवं परमाणुद्व्यणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमान- मिति सिद्धम् ।
परि०— सौत्रमिति । महद्दीर्घवद्वेति सूत्रोक्तं प्राक्प्रपञ्चितं अनुमानचतुष्टयं साध्विति सिद्धमित्यर्थः ।
* * *
।। अथ उक्तार्थे वैजात्यमङ्गीकृत्यापि कार्यकारणभावस्य शक्योपपादनत्वेऽपि
सजातीयतोपपादनेनोक्तार्थसाधने कारणप्रदर्शनम् ॥
३५ सु० - यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभाव: शक्योपपादन:, अन्यथा सङ्ख्याया अप्यकारणत्वापत्तेः परिमाणस्यैवमिति नियमस्य निर्मूलत्वात् तथाऽपि वस्तुस्थितिरेव वक्तव्येति परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् ।
परि०- भाष्येऽनौचित्यमाशङ्कय निराह यद्यपीति ।
०प०— शक्योपपादन इति । तथा चोक्तप्रबन्धेन साजात्यमङ्गीकृत्य सर्वत्राणुत्वस्य वा महत्त्वस्य वोपपादनं व्यर्थमिति भावः । अन्यथेति । वैजात्ये यदि कार्यकारणभावो नेत्यर्थः । तर्हीति शेषः । आपत्तेः विजातीयत्यात्सङ्ख्यापरिमाणयोरिति शेषः । ननु विजातीयत्वेऽपि सङ्ख्यापरिमाणयोरेव विजातीययोः कार्य- कारणभावोऽङ्गीकृतः । न विजातीययोः परिमाणयोः अतः सङ्ख्ययोत्पत्तिः परिमाणस्य युक्ता न परिमाणादिति चेन्न । निर्मूलत्वादेतत्कल्पनाया इत्याह परिमाणस्यैवमितीति ।
श्रीनिधि०- परिमाणस्यैवमितीति । परिमाणस्य विजातीयस्य न कारणत्वं किन्तु सजातीय- स्यैवेति नियमस्य नियामकशून्यत्वादित्यर्थः । किन्तु सङ्ख्यावत् परिमाणस्यापि विजातीयस्यापि कारणत्वमिति