________________
१
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
श्रीमज्जयतीर्थयतिकृता
श्रीमन्यायसुधा
जन्माधिकरणात् अधिकरणचतुष्टयम्
॥ अथ जन्माधिकरणम् ॥ ॥१-१-२॥
॥ श्रीगुरुभ्यो नमः ॥ 11ER: 3011
॥ अथ जिज्ञास्यस्य ब्रह्मण: प्रसिद्ध-लक्षणकथनम् ॥
सु० - प्रथमसूत्रे विहिता ब्रह्मजिज्ञासा जन्मादिसूत्रैः क्रियते ।
परि०—- उत्तरसन्दर्भस्य पूर्वानन्तर्ये बीजं वदन्नभिधेयमाह प्रथमेति । विहितेति । कर्तव्यत्वेन बोधितेत्यर्थः । जन्मादिसूत्रैरिति । एतेनेक्षतेरित्यादिसूत्रैर्ब्रह्म विचार्यत इति वदन्तो निरस्ताः । व्यक्तं ह्येतत्समन्वयसूत्रे चन्द्रिकायाम् ।
यादु० – सङ्गतिं दर्शयति प्रथमसूत्र इत्यादिना । जन्मादिसूत्रैरिति । 'अनावृत्तिः शब्दादनावृत्तिः शब्दात्' इत्येतदन्तैरित्यर्थः ।
आनन्दः— ननु जन्माद्यस्य इत्यनेन लक्षणकथनमयुक्तम्, प्रतिज्ञाननुगुणत्वात् । ब्रह्मविचारस्य प्रतिज्ञातत्वात् लक्षणविचारस्य चाब्रह्मत्वविचारत्वादित्यत आह प्रथमसूत्र इति । तथा च लक्षणविचारस्यापि ब्रह्मविचारत्वाल्लक्षणकथनं युक्तमिति भावः ।