📚 न्यायसुधा-परिमलाद्युपेत-७
Page 1
Download 📥
________________ १ ।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥ श्रीमज्जयतीर्थयतिकृता श्रीमन्यायसुधा प्रथमाध्याये प्रथमपादे ॥ आनन्दमयाधिकरणम् ॥ ॥ १-१-६॥ ब्र०सू० — ॥ ॐ आनन्दमयोऽभ्यासात् ॐ ॥ ॥ अथ तत्र स्वपक्षसाधनम् ॥ ॥ तत्राप्यादौ एतदादिप्रथमाध्यायस्य कृत्यम् ॥ सु० - “अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वादि' ति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयाऽवधारितम् । प्रमाणस्यान्यपरत्व(ा)शङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । न हि लक्षणप्रमाण- निरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावना तु न वस्त्ववधारणार्था, अप्रमाणत्वात्, किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयोरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः । वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यव- स्थेत्यतो ब्रह्मस्वरूपनिरूपणेऽवशेषाभावात् किमानन्दमयोऽभ्यासादित्यादिनाऽध्यायेन" इत्याशङ्कय अध्यायशेषस्य कृत्यमाह एवमिति । अनु० — एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ॥ आनन्दमय इत्यादिनाऽध्यायेन वदत्यजः ।