________________
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
श्रीमज्जयतीर्थयतिकृता
श्रीमन्न्यायसुधा
॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥
T
॥ अथ प्रथमाध्यायस्य द्वितीयः पादः ॥
॥ अथ सर्वगतत्वाधिकरणम् ॥
॥ १-२-१॥
ब्र०सू० - ॥ ॐ सर्वत्रप्रसिद्धोपदेशात् ॐ ॥
॥ अथ सप्रयोजनं द्वितीयपादप्रतिपाद्यार्थप्रदर्शनम् ॥
॥ तत्रादौ उत्तरपादप्रतिपाद्यार्थभेदः ॥
१ सु० - द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रति- पाद्यमर्थं दर्शयति लिङ्गात्मकानामिति ।
अनु० – लिङ्गात्मकानां शब्दानां
लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वा आत्मशब्दः, निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।
परि०— द्वितीयपादस्येति । प्रतिपाद्यमर्थं दर्शयतीत्यन्वयः । तस्य फलोक्तिः पूर्वेत्यादि । पूर्वपादोत्तरपादोक्तार्थादर्थभेदोक्त्या पादभेदस्यैकरूपार्थप्रतिपादकत्वोत्त्या स्वस्मिन् द्वितीयपादे एकवाक्य- तायाश्च सिद्धेः। अत्र नियामकस्य 'अर्थैकत्वादेकं वाक्यमित्यादेरन्तरधिकरण एवोक्तेरिति भावः ।