________________
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥
श्रीमज्जयतीर्थयतिकृता
श्रीमन्यायसुधा
अथ प्रथमाध्यायस्य चतुर्थपादे प्रकृत्यधिकरणम्
॥ १-४-६॥
॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥
॥ ॐ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॐ ॥
॥ १-४-६-२४॥
॥ अथ पादान्त्याधिकरणद्वयस्य (प्रकृत्यधिकरण-एतेनसर्वेव्याख्याताधिकरण-योः) सङ्क्षेपतस्तात्पर्यकथनम् ॥
१ सु० - इदानीं 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्', 'एतेन सर्वे व्याख्याता व्याख्याता' इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाचेति ।
अनु०—– स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ।
स्त्रीलिङ्गाः प्रकृत्यादिशब्दाः स्त्रीशब्दाः || निषेधनं निषेधः = अभाव:, निषिद्धयत इति निषेध: = असत्, तदुभयार्थाः ॥ शब्दा इति (च) वर्तते ।
यादु० - स्त्रीलिङ्गा इति । स्त्रीगतासाधारणधर्मनिमित्तका इत्यर्थः । तेन दारा इत्यादिशब्दसङ्ग्रह इत्यव - धेयम। एवमग्रेऽपि । |