________________
1
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्विष्णुतत्त्वविनिर्णयः
सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।
नारायणं सदा बन्दे निर्दोषाशेषसद्गुणम् ॥ १ ॥
श्रीनारायणपण्डिताचार्यविरचिता तत्त्वमञ्जरी
वन्दे नारायणं देवं प्रोद्यत्प्रद्योतनप्रभम् ।
निरस्तोरुतमस्तोमं स्वच्छातुच्छगुणोदयम् ॥
श्रीमदानन्दतीर्थार्यपादपांसुः पुनातु नः ।
चूडामणिः सुरेन्द्राणां सतां चिन्तामणिः सदा ॥
पूर्णानन्दात्मनेऽनन्तज्ञानविज्ञानरोचिषे । विशुद्धतत्त्वतनवे नमो वेदान्तमूर्तये ॥
त्रिविक्रमार्यवर्येभ्यो गुरुभ्योऽस्तु नमस्कृतिः । यत्कृपाकल्पकलता सर्वदा सर्वदाऽपि नः ॥
श्रीमदानन्दतीर्थीयो विष्णोः सत्तत्त्वनिर्णयः । व्याख्यायते यथाप्रज्ञं सज्जनोऽत्रानुमोदताम् ॥
श्रीजयतीर्थविरचिता टीका
विश्वस्योदयमातनोति तदनु त्राणं विधत्ते पुनः सौख्याप्तीतरहानिसाधनमलं वक्ति श्रुतीर्व्यञ्जयन् । स्वापं प्रापयति श्रमापहृतये कल्पावसाने च यः तं देवं पितरं पतिं गुरुतमं वन्दे रमावल्लभम् ॥ १॥ लसतु श्रीमदानन्दतीर्थेन्दुर्नो हृदम्बरे । यद्वचश्चन्द्रिका स्वान्तसन्तापं विनिकृन्तति ॥ २॥ पदवाक्यप्रमाणज्ञान् प्रणम्य शिरसा गुरून् । व्याकरिष्ये यथाबोधं विष्णुतत्त्वविनिर्णयम् ॥ ३ ॥
श्रीरघूत्तमयतिविरचितः भावबोधः
नत्वा लक्ष्म्याः पतिमानन्दतीर्थं तथा जयार्यं परमं गुरुं च ।
गुरुं च मे जयतीर्थीयभावं वक्ष्ये विष्णुप्रीतयेऽहं स्वशक्त्या ॥ १ ॥
अथ परमकारुणिकः श्रीमदाचार्यो यथायोगमिष्टेष्टसाधनत्वाभ्यां सकलसज्जनापेक्षितविष्णुतत्त्वनिर्णयमुद्दिश्य प्रकरणं निर्माय तस्य तादर्थ्यज्ञापनाय व्यधिकरणबहुव्रीहिसमासविवक्षया विष्णुतत्त्वनिर्णय इति नाम तस्य चकार । तस्याप्यतिगहनगम्भीरतया आचार्याभिमततच्छब्दवाच्यत्वं मन्दैर्न शक्यते ज्ञातुमिति तथा तच्छब्द-वाच्यत्वज्ञापनार्थं तस्य प्रकरणस्य व्याख्यानं कर्तुकामो